सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
‘न विद्मो न विजानीमो यथैतदनुशिष्यात्’ (के. उ. १ । ३) इति अत्यन्तमेव उपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादोऽयम् उच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः ; आगमेन तु शक्यत एव प्रत्याययितुमिति तदुपदेशार्थम् आगमम् आह — अन्यदेव तद्विदितादथो अविदितादधीति ॥
ओम् अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥
‘न विद्मो न विजानीमो यथैतदनुशिष्यात्’ (के. उ. १ । ३) इति अत्यन्तमेव उपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादोऽयम् उच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः ; आगमेन तु शक्यत एव प्रत्याययितुमिति तदुपदेशार्थम् आगमम् आह — अन्यदेव तद्विदितादथो अविदितादधीति ॥
अन्यदेव पृथगेव तत् यत्प्रकृतं श्रोत्रादीनां श्रोत्रादि इत्युक्तम् अविषयश्च तेषाम् । तत् विदितात् अन्यदेव हि । विदितं नाम यद्विदिक्रियया अतिशयेन आप्तं विदिक्रियाकर्मभूतम् । क्वचित् किञ्चित् कस्यचिद् विदितं स्यात् इत्ति सर्वमेव व्याकृतं विदितमेव ; तत् तस्मादन्यदेव इत्यर्थः । अविदितम् अज्ञातं तर्हि इति प्राप्ते आह — अथो- अपि अविदितात् विदितविपरीतात् अव्याकृतात् अविद्यालक्षणात् व्याकृतबीजात् । अधि इति उपर्यर्थे; लक्षणया अन्यत् इत्यर्थः । यद्धि यस्मादधि उपरि भवति, तत् तस्मादन्यत् इति प्रसिद्धम् ॥
यद्विदितं तदल्पं मर्त्यं दुःखात्मकं चेति हेयम् । तस्मात् विदितादन्यद्ब्रह्म इत्युक्ते तु अहेयत्वम् उक्तं स्यात् । तथा ’अविदितादधि’ इयुक्ते अनुपादेयत्वम् उक्तं स्यात् । कार्यार्थं हि कारणमन्यत् अन्येन उपादीयते । अतश्च न वेदितुः अन्यस्मै प्रयोजनाय अन्यत् उपादेयं भवति इति । एवं विदिताविदिताभ्याम् अन्यदिति हेयोपादेयप्रतिषेधेन स्वात्मनोऽनन्यत्वात् ब्रह्मविषया जिज्ञासा शिष्यस्य निर्वर्तिता स्यात् । न हि अन्यस्य स्वात्मनो विदिताविदिताभ्याम् अन्यत्वं वस्तुनः सम्भवति इति आत्मा ब्रह्म इत्येष वाक्यार्थः ; ‘अयमात्मा ब्रह्म’ (बृ. उ. ४ । ४ । ५) ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इत्यादिश्रुत्यन्तरेभ्यश्चेति ॥
एवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योतिषो ब्रह्मत्वप्रतिपादकस्य वाक्यार्थस्य आचार्योपदेशपरम्परया प्राप्तत्वम् आह — इति शुश्रुम इत्यादि । ब्रह्म च एवम् आचार्योपदेशपरम्परया एव अधिगन्तव्यं न तर्कतः प्रवचन-मेधा-बहुश्रुत-तपो-यज्ञादिभ्यश्च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषाम् आचार्याणां वचनम् ; ये आचार्याः नः अस्मभ्यं तत् ब्रह्म व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः तेषामित्यर्थः ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS