अथ कृष्णयजुर्वेदीया काठकोपनिषत्
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥७॥
योनिं योनिद्वारं शुक्रबीजसमन्विताः सन्तः अन्ये केचित् अविद्यावन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनः देहवन्तः योनिं प्रविशन्तीत्यर्थः । स्थाणुं वृक्षादिस्थावरभावम् अन्ये अत्यन्त-अधमा मरणं प्राप्य अनुसंयन्ति अनुगच्छन्ति । यथाकर्म यद्यस्य कर्म तद्यथाकर्म यैः यादृशं कर्म इह जन्मनि कृतं तद्वशेन इत्येतत् । तथा यथाश्रुतं यादृशं च विज्ञानम् उपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्ते इत्यर्थः; ‘यथाप्रज्ञं हि सम्भवाः’ (ऐ. आ. २ । ३ । २) इति श्रुत्यन्तरात् ॥७॥