भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥

एषः ते तुभ्यम् अग्निः वरः हे नचिकेतः, स्वर्ग्यः स्वर्गसाधनः, यम् अग्निं वरम् अवृणीथाः वृतवान् प्रार्थितवानसि द्वितीयेन वरेण, सोऽग्निर्वरो दत्त इत्युक्तोपसंहारः । किञ्च, एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः जना इत्येतत् । एष वरो दत्तो मया चतुर्थः तुष्टेन । तृतीयं वरं नचिकेतः वृणीष्व । तस्मिन् हि अदत्ते ऋणवानेव अहम् इत्यभिप्रायः ॥१९॥

© 2023 KKP APP. All rights reserved | Design by SMDS