अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥
अस्य पुनर्विद्यावतो विध्वस्तोपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघनैकरसम् अद्वयम् आत्मानं पश्यतो विजानतो मुनेः मननशीलस्या् आत्मस्वरूपं कथं सम्भवतीति, उच्यते — यथा उदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एकरसमेव नान्यथा, तादृगेव भवति आत्माप् एवमेव भवति एकत्वं विजानतो मुनेः मननशीलस्य हे गौतम । तस्मात् क्तार्किकभेददृष्टिं नास्तिककुदृष्टिं च उज्झित्वा मातृपितृसहस्रेभ्योऽपि हितैषिणा वेदेन उपदिष्टम् आत्मैकत्वदर्शनं शान्तदर्पैः आदरणीयमित्यर्थः ॥
इति श्रीमच्छङ्करभगवतः कृतौ
काठकोपनिषद्भाष्ये चतुर्थी वल्ली
© 2023 KKP APP. All rights reserved | Design by SMDS