भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥१४॥

पुनरपि भेददर्शन-अपवादं ब्रह्मण आह — यथा उदकं दुर्गे दुर्गमे देशे उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्नप्रदेशेषु विधावति विकीर्णं सत् विनश्यति, एवं धर्मान् आत्मनः अभिन्नान् पृथक् पश्यन् पृथगेव प्रतिशरीरं पश्यन् तानेव शरीरभेदानुवर्तिनः अनुविधावति । शरीरभेदमेव पृथक् पुनः पुनः प्रतिपद्यत इत्यर्थः ॥१४॥

© 2023 KKP APP. All rights reserved | Design by SMDS