भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यतश्चोदेति सूर्यः अस्तं यत्र च गच्छति ।
तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९ ॥

किञ्च, यतश्च यस्मात्प्राणात् उदेति उत्तिष्ठति सूर्यः, अस्तं निम्लोचनं तिरोधानं यत्र यस्मिन्नेव च प्राणे अहन्यहनि गच्छति, तं प्राणम् आत्मानं देवाः सर्वे अग्न्यादयः अधिदैवं वागादयश्च अध्यात्मं सर्वे विश्वे अरा इव रथनाभौ अर्पिताः सम्प्रवेशिताः स्थितिकाले । सोऽपि ब्रह्मैव । तत् एतत्सर्वात्मकं ब्रह्म, उ नात्येति न अतीत्य तदात्मकतां तदन्यत्वं गच्छति, कश्चन कश्चिदपि एतद्वै तत् ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS