अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥ ११ ॥
मृत्युरुवाच — यथा बुद्धिः त्वयि पुरस्तात् पूर्वम् आसीत् स्नेहसमन्विता पितुस्तव, भविता प्रीतिसमन्वितः तव पिता तथैव प्रतीतः प्रतीतवान् सन् । औद्दालकिः उद्दालक एव औद्दालकिः अरुणस्य अपत्यम् आरुणिः द्व्यामुष्यायणो वा मत्प्रसृष्टः मया अनुज्ञातः सन् उत्तरा अपि रात्रीः सुखं प्रसन्नमनाः शयिता स्वप्ता वीतमन्युः विगतमन्युश्च भविता स्यात् , त्वां पुत्रं ददृशिवान् दृष्टवान् सन् मृत्युमुखात् मृत्युगोचरात् प्रमुक्तं सन्तम् ॥११॥