अथ कृष्णयजुर्वेदीया काठकोपनिषत्
तस्मात् शरीरविस्रंसनात्प्राक् आत्मावबोधाय यत्न आस्थेयः यस्मात् इहैव आत्मनो दर्शनम् आदर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते, न लोकान्तरेषु ब्रह्मलोकादन्यत्र । स च दुष्प्रापः ॥ कथमिति, उच्यते —
यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके ।
यथाप्सु परीव ददृशे तथा गन्धर्वलोके च्छायातपयोरिव ब्रह्मलोके ॥५॥
यथा आदर्शे प्रतिबिम्बभूतम् आत्मानं पश्यति लोकः अत्यन्तविविक्तम् , तथा इह आत्मनि स्वबुद्धौ आदर्शवन्निर्मलीभूतायां विविक्तम् आत्मनो दर्शनं भवतीत्यर्थः । यथा स्वप्ने अविविक्तं जाग्रद्वासनोद्भूतम् , तथा पितृलोके अविविक्तमेव दर्शनम् आत्मनः कर्मफलोपभोगासक्तत्वात् । यथा च अप्सु अविविक्त-अवयम् अमात्मस्वरूपं परीव ददृशे परिदृश्यत इव, तथा गन्धर्वलोके अविविक्तमेव दर्शनम् आत्मनः एवं च लोकान्तरेष्वपि शास्त्रप्रामाण्यात् अवगम्यते । छायातपयोरिव अत्यन्तविविक्तं ब्रह्मलोके एव एकस्मिन् । स च दुष्प्रापः, अत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात् । तस्मात् आत्मदर्शनाय इहैव यत्नः कर्तव्यः इत्यभिप्रायः ॥५॥
© 2023 KKP APP. All rights reserved | Design by SMDS