अथ कृष्णयजुर्वेदीया काठकोपनिषत्
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥
किञ्च, एतदात्मतत्त्वं यदहं वक्ष्यामि, तच्छ्रुत्वा आचार्यसकाशात् सम्यगात्मभावेन परिगृह्य उपादाय मर्त्यः मरणधर्मा धर्मादनपेतं धर्म्यं प्रवृह्य उद्यम्य पृथक्कृत्य शरीरादेः अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य सः मर्त्यः विद्वान् मोदते मोदनीयं हि हर्षणीयम् आत्मानं लब्ध्वा । तदेतत् एवंविधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रत्यपावृतद्वारं विवृतम् अभिमुखीभूतं मन्ये, मोक्षार्हं त्वां मन्ये इत्यभिप्रायः ॥१३॥