अथ कृष्णयजुर्वेदीया काठकोपनिषत्
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥
अतः एतद्ध्येव अक्षरं ब्रह्म अपरम् एतद्ध्येव अक्षरं परं च । तयोर्हि प्रतीकम् एतदक्षरम् । एतद्ध्येव अक्षरं ज्ञात्वा उपास्य ब्रह्म इति यो यदिच्छति परम् अपरं वा तस्य तत् भवति । परं चेत् ज्ञातव्यम्, अपरं चेत् प्राप्तव्यम् ॥१६॥