भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥

तत्र पूर्वोक्तस्य अविज्ञानवतो बुद्धिसारथेः इदं फलमाह — यस्तु अविज्ञानवान् भवति । अमनस्कः अप्रगृहीतमनस्कः सः तत एव अशुचिः सदा एव । न सः रथी तत् पूर्वोक्तमक्षरं यत्परं पदम् आप्नोति तेन सारथिना । न केवलं तन्नाप्नोति, संसारं च जन्ममरणलक्षणम् अधिगच्छति ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS