अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥
तत्रैवं सति यस्तु बुद्ध्याख्यः सारथिः अविज्ञानवान् अनिपुणः अविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथा इतरो रथचर्यायाम् अयुक्तेन अप्रगृहीतेन असमाहितेन मनसा प्रग्रहस्थानीयेन सदा युक्तो भवति, तस्य अकुशलस्य बुद्धिसारथेः इन्द्रियाणि अश्वस्थानीयानि अवश्यानि अशक्यनिवारणानि दुष्टाश्वाः अदान्ताश्वाः इव इतरसारथेः भवन्ति ॥५॥