अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६॥
यस्तु पुनः पूर्वोक्तविपरीतसारथिर्भवति तस्य फलमाह — यस्तु विज्ञानवान् निपुणः विवेकवान् युक्तेन मनसा प्रगृहीतमनाः समाहितचित्तः सदा, तस्य अश्वस्थानीयानि इन्द्रियाणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इव इतरसारथेः ॥६॥