अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥८॥
यस्तु द्वितीयो विज्ञानवान् भवति विज्ञानवत्सारथ्युपेतो रथी, विद्वान् इत्येतत् । युक्तमनाः समनस्कः सः तत एव सदा शुचिः । स तु तत्पदमाप्नोति, यस्मात् आप्तात् पदात् अप्रच्युतः सन् भूयः पुनः न जायते संसारे ॥८॥