भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥

अतः विहाय अनित्यैः कामैः प्रलोभनम् , यन्मया प्रार्थितं, यस्मिन् प्रेते इदं विचिकित्सनं विचिकित्सन्ति अस्ति नास्ति इत्येवंप्रकारं हे मृत्यो, साम्पराये परलोकविषये महति महाप्रयोजननिमित्ते आत्मनो निर्णयविज्ञानं यत् , तत् ब्रूहि कथय नः अस्मभ्यम् । किं बहुना, योऽयं प्रकृत आत्मविषयः वरः गूढं गहनं दुर्विवेचनं प्राप्तः अनुप्रविष्टः, तस्मात् वरात् अन्यम् अविवेकिभिः प्रार्थनीयम् अनित्यविषयं वरं नचिकेताः न वृणीते मनसापि इति श्रुतेर्वचनम् इति ॥

इति श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमा वल्ली

© 2023 KKP APP. All rights reserved | Design by SMDS