अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥६॥
यः प्रत्यगात्मा ईश्वरभावेन निर्दिष्टः, स सर्वात्मा इत्येतद्दर्शयति — यः कश्चिन्मुमुक्षुः पूर्वं प्रथमं तपसः ज्ञानादिलक्षणाद्ब्रह्मण इत्येतत्; जातम् उत्पन्नं हिरण्यगर्भम् । किमपेक्ष्य पूर्वमिति, आह — अद्भ्यः पूर्वम् अप्सहितेभ्यः पञ्चभूतेभ्यः, न केवलाभ्योऽद्भ्य इत्यभिप्रायः । अजायत उत्पन्नः यस्तं प्रथमजं देवादिशरीराण्युत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीन् उपलभमानं भूतेभिः भूतैः कार्यकरणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यति इत्येतत्; यः एवं पश्यति, सः एतदेव पश्यति — यत्तत्प्रकृतं ब्रह्म ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS