अथ कृष्णयजुर्वेदीया काठकोपनिषत्
या प्राणेन सम्भवति अदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥७॥
किञ्च, या सर्वदेवतामयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद्ब्रह्मणः सम्भवति शब्दादीनाम् अदनात् अदितिः तां पूर्ववत् गुहां प्रविश्य तिष्ठन्तीम् अदितिम् । तामेव विशिनष्टि — या भूतेभिः भूतैः समन्विता व्यजायत उत्पन्ना इत्येतत् ॥७॥