अथ कृष्णयजुर्वेदीया काठकोपनिषत्
एतावद् हि अतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनवगन्तव्यं यद्वरद्वयसूचितं वस्तु न आत्मतत्त्वविषययाथात्म्यविज्ञानम् । अतो विधिप्रतिषेधार्थविषयस्य आत्मनि क्रियाकारकफल-अध्यारोपणलक्षणस्य स्वाभाविकस्य अज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफल-अध्यारोपणशून्यम् आत्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यम् इति उत्तरो ग्रन्थः आरभ्यते । तमेतमर्थं द्वितीयवरप्राप्त्यापि अकृतार्थत्वं तृतीयवरगोचरम् आत्मज्ञानमन्तरेण इति आख्यायिकया प्रपञ्जयति । यतः पूर्वस्मात् कर्मगोचरात् साध्यसाधनलक्षणादनित्यात् विरक्तस्य् आत्मज्ञाने अधिकारः इति तन्निन्दार्थं पुत्राद्युपन्यासेन प्रलोभनं क्रियते ॥
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ २० ॥
नचिकेता उवाच ‘तृतीयं वरं नचिकेतो वृणीष्व’ इत्युक्तः सन् — येयं विचिकित्सा संशयः प्रेते मृते मनुष्ये, अस्ति इत्येके अस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तो देहान्तरसम्बन्धी आत्मा इति एके मन्यन्ते, नायमस्ति इति च एके नायम् एवंविधोऽस्ति इति च एके । अत्र च अस्माकं न प्रत्यक्षेण नापि अनुमानेन निर्णयविज्ञानम् । एतद्विज्ञानाधीनो हि परः पुरुषार्थः इत्यतः एतत् विद्यां विजानीयाम् अहम् अनुशिष्टः ज्ञापितः त्वया । वराणाम् एषः वरः तृतीयोऽवशिष्टः ॥२०॥
© 2023 KKP APP. All rights reserved | Design by SMDS