भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । प्रयतः
श्राद्धकाले वा तदानन्त्याय कल्पते ॥
तदानन्त्याय कल्पत इति ॥१७॥

यः कश्चित् इमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेत् ग्रन्थतः अर्थतश्च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर्भूत्वा श्राद्धकाले वा श्रावयेत् भुञ्जानाम्, तत् श्राद्धम् अस्य आनन्त्याय अनन्तफलाय कल्पते समर्थ्यते । द्विर्वचनम् अध्यायपरिसमाप्त्यर्थम् ॥१७॥

इति श्रीमच्छङ्करभगवतः कृतौ
काठकोपनिषद्भाष्ये तृतीया वल्ली

© 2023 KKP APP. All rights reserved | Design by SMDS