अथ कृष्णयजुर्वेदीया काठकोपनिषत्
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥५॥
किञ्च, यः कश्चित् इमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयितारम् आत्मानं वेद विजानाति अन्तिकात् अन्तिके समीपे ईशानम् ईशितारं भूतभव्यस्य कालत्रयस्य, ततः तद्विज्ञानादूर्ध्वम् आत्मानं न विजुगुप्सते न गोपायितुमिच्छति, अभयप्राप्तत्वात् । यावद्धि भयमध्यस्थः अनित्यमात्मानं मन्यते तावद्गोपायितुमिच्छति आत्मानम् । यदा तु नित्यम् अद्वैतमात्मानं विजानाति, तदा कः किं कुतो वा गोपायितुमिच्छेत् । एतद्वै तत् इति पूर्ववत् ॥५॥
© 2023 KKP APP. All rights reserved | Design by SMDS