भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामि इति तदाह—

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो
निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८ ॥

य एष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति; कथम् ? कामं कामं तं तमभिप्रेतं स्त्र्याद्यर्थम् अविद्यया निर्मिमाणः निष्पादयन्, जागर्ति पुरुषः यः, तदेव शुक्रं शुभ्रं शुद्धं तद्ब्रह्म नान्यद्गुह्यं ब्रह्म अस्ति । तदेव अमृतम् अविनाशि उच्यते सर्वशास्त्रेषु । किञ्च, पृथिव्यादयो लोकाः तस्मिन्नेव सर्वे ब्रह्मणि श्रिताः आश्रिताः, सर्वलोककारणत्वात् तस्य । तदु न अत्येति कश्चन इत्यादि पूर्ववदेव ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS