भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यद्विज्ञानादमृता भवन्तीत्युच्यते, जगतो मूलं तदेव नास्ति ब्रह्म ; असतः एव इदं निःसृतमिति, तन्न —

यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥२॥

यदिदं किञ्च यत्किञ्चेदं जगत्सर्वं प्राणे परस्मिन्ब्रह्मणि सति एजति कम्पते, तत एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते । यदेवं जगदुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम् , महच्च तत् भयं च बिभेति अस्मादिति महद्भयम् , वज्रमुद्यतम् उद्यतमिव वज्रम् ; यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते, तथा इदं चन्द्र-आदित्य-ग्रह-नक्षत्र-तारकादिलक्षणं जगत् सेश्वरं नियमेन क्षणमप्[ अविश्रान्तं वर्तते इत्युक्तं भवति । ये एतत् विदुः स्वात्मप्रवृत्तिसाक्षिभूतम् एकं ब्रह्म, अमृताः अमरणधर्माणः ते भवन्ति ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS