अथ कृष्णयजुर्वेदीया काठकोपनिषत्
सा हृन्मनीट् कथं प्राप्यत इति तदर्थो योगः उच्यते —
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥१०॥
यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञानानि — ज्ञानार्थत्वात् श्रोत्रादीनि इन्द्रियाणि ज्ञानानि उच्यन्ते — अवतिष्ठन्ते सह मनसा यदनुगतानि, येन सङ्कल्पादिव्यावृत्तेन अन्तःकरणेन । बुद्धिश्च अध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते, तामाहुः परमां गतिम् ॥१०॥