भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥

यद्ब्रह्मादिस्थावरान्तेषु वर्तमानं तत्तदुपाधित्वात् अब्रह्मवदत् अवभासमानं संसारि अन्यत्परस्माद्ब्रह्मण इति मा भूत् कस्यचिदाशङ्का इति इदमाह — यदेव इह कार्यकारणोपाधिसमन्वितं संसारधर्मवदवभासमानम् अविवेकिनाम् , तदेव स्वात्मस्थम् अमुत्र नित्यविज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म । यच्च अमुत्र अमुष्मिन्नात्मनि स्थितम्, तदनु इह तदेव इह कार्यकरण-नामरूपोपाधिम् अनु विभाव्यमानं न अन्यत् । तत्रैवं सति उपाधिस्वभावभेददृष्टिलक्षणया अविद्यया मोहितः सन् य इह ब्रह्मणि अनानाभूते परस्मादन्योऽहं मत्तः अन्यत् परं ब्रह्म इति नाना इव भिन्नमिव पश्यति उपलभते, स मृत्योः मरणात् मृत्युं मरणं पुनः पुनः जननमरणभावम् आप्नोति प्रतिपद्यते । तस्मात् तथा न पश्येत् । विज्ञानैकरसं नैरन्तर्येण आकाशवत्परिपूर्णं ब्रह्मैव अहमस्मि इति पश्येत् इति वाक्यार्थः ॥१०॥

© 2023 KKP APP. All rights reserved | Design by SMDS