भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५ ॥

कदा पुनः कामानां मूलतो विनाशः इति, उच्यते —
यदा सर्वे प्रभिद्यन्ते भेदमुपयान्ति विनश्यन्ति हृदयस्य बुद्धेः इह जीवतः एव ग्रन्थयो ग्रन्थिवद्दृढबन्धनरूपा अविद्याप्रत्यया इत्यर्थः । ’अहमिदं शरीरम्’ ममेदं धनम्’ ’सुखी दुःखी च अहम् इत्येवमादिलक्षणाः तद्विपरीतात् ब्रह्मात्मप्रत्ययोपजनात् ब्रह्मैव अहमस्मि असंसारी इति विनष्टेषु अविद्याग्रन्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति । अथ मर्त्यः अमृतो भवति एतावद्धि एतावदेव एतावन्मात्रं; न अधिकमस्ति इति आशङ्का कर्तव्या । अनुशासनम् अनुशिष्टः उपदेशः सर्ववेदान्तानाम् इति वाक्यशेषः ॥१५॥

© 2023 KKP APP. All rights reserved | Design by SMDS