अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥१४
एवं परमार्थात्मदर्शिनो यदा यस्मिन्काले सर्वे कामाः कामयितव्यस्य अन्यस्य अभावात् प्रमुच्यन्ते विशीर्यन्ते; ये अस्य प्राक्प्रतिबोधात् विदुषो हृदि बुद्धौ श्रिताः आश्रिताः; बुद्धिर्हि कामानामाश्रयः न आत्मा, ‘कामः सङ्कल्पः’ (बृ. उ. १ । ५ । ३) इत्यादिश्रुत्यन्तराच्च; अथ तदा मर्त्यः प्राक्प्रबोधात् आसीत्, सः प्रबोधोत्तरकालम् अविद्याकामकर्मलक्षणस्य मृत्योः विनाशात् अमृतो भवति गमनप्रयोजकस्य मृत्योः विनाशात् गमनानुपपत्तेः । अत्र इहैव प्रदीपनिर्वाणवत् सर्वबन्धनोपशमात् ब्रह्म समश्नुते ब्रह्मैव भवति इत्यर्थः ॥१४॥
© 2023 KKP APP. All rights reserved | Design by SMDS