अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥१३॥
तत्प्रतिपत्त्युपायमाह — यच्छेत् नियच्छेत् उपसंहरेत् प्राज्ञः विवेकी । किम् ? वाक् वाचम्; वाक् अत्र उपलक्षणार्था सर्वेषामिन्द्रियाणाम् । क्व ? मनसी मनसि । छान्दसं दैर्घ्यम् । तच्च मनः यच्छेत् ज्ञाने प्रकाशस्वरूपे बुद्धौ आत्मनि । बुद्धिर्हि मनआदिकरणानि आप्नोति इति आत्मा प्रत्यक् च तेषाम् । ज्ञानं बुद्धिम् आत्मनि महति प्रथमजे नियच्छेत् । प्रथमजवत् स्वच्छस्वभावम् आत्मनो विज्ञानमापादयेत् इत्यर्थः । तं च महान्तम् आत्मानं यच्छेत् शान्ते सर्वविशेषप्रत्यस्तमितरूपे अविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्ये आत्मनि ॥१३॥
© 2023 KKP APP. All rights reserved | Design by SMDS