भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥९॥

किं तत्पदमित्याह — विज्ञानसारथिः यस्तु यो विवेकबुद्धिसारथिः पूर्वोक्तः मनःप्रग्रहवान् प्रगृहीतमनाः समाहितचित्तः सन् शुचिः नरो विद्वान्, सः अध्वनः संसारगतेः पारं परमेव, अधिगन्तव्यम् इत्येतत् , आप्नोति, मुच्यते सर्वसंसारबन्धनैः । तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानम्, सतत्त्वमित्येतत्, यत् असौ आवाप्नोति विद्वान् ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS