अथ कृष्णयजुर्वेदीया काठकोपनिषत्
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥१०॥
तथा अन्यो दृष्टान्तः — वायुर्यथैक इत्यादि । प्राणात्मना देहेषु अनुप्रविष्टः । रूपं रूपं प्रतिरूपो बभूव इत्यादि समानम् ॥१०॥