भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये

प्रथमे अध्याये प्रथमा वल्ली

ओम् उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

तत्र आख्यायिका विद्यास्तुत्यर्था । उशन् कामयमानः । ह वै इति वृत्तार्थस्मरणार्थौ निपातौ । वाजम् अन्नम् , तद्दानादिनिमित्तं श्रवो यशो यस्य सः वाजश्रवाः, रूढितो वा ; तस्यापत्यं वाजश्रवसः । सः वाजश्रवसः किल विश्वजिता सर्वमेधेन ईजे तत्फलं कामयमानः । सः तस्मिन्क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् । तस्य यजमानस्य ह नचिकेता नाम पुत्रः किल आस बभूव ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS