अथ कृष्णयजुर्वेदीया काठकोपनिषत्
अथ षष्ठी वल्ली
तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके, एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मणः स्वरूपावदिधारयिषया इयं षष्ठी वल्ली आरभ्यते ||
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १ ॥
ऊर्ध्वमूलः ऊर्ध्वं मूलं यत् तद्विष्णोः परमं पदम् अस्य इति सोऽयम् अव्यक्तादिस्थावरान्तः संसारवृक्षः ऊर्ध्वमूलः । वृक्षश्च व्रश्चनात् विनश्वरत्वात् । अविच्छिन्न-जन्मजरामरणशोकाद्यनेक-अनर्थात्मकः प्रतिक्षणम् अन्यथास्वभावः, मायामरीच्युदकगन्धर्वनगरादिवत् दृष्टनष्टस्वरूपत्वात् अवसाने च वृक्षवदभावात्मकः, कदलीस्तम्भवत् निःसारः, अनेकशतपाषण्डबुद्धिविकल्पास्पदः, तत्त्वविजिज्ञासुभिः अनिर्धारितेदन्तत्त्वः, वेदान्तनिर्धारितपरब्रह्ममूलसारः, अविद्याकामकर्माव्यक्तबीजप्रभवः, अपरब्रह्मविज्ञान-क्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः, सर्वप्राणिलिङ्गभेदस्कन्धः, तत्तत्तृष्णाजलासेकोद्भूतदर्पः, बुद्धीन्द्रियविषयप्रवालाङ्कुरः, श्रुतिस्मृतिन्यायविद्योपदेशपलाशः, यज्ञदानतपआद्यनेकक्रियासुपुष्पः, सुखदुःखवेदनानेकरसः, प्राण्युपजीव्यानन्तफलः, तत्तृष्णासलिलावसेकप्ररूढजटिलीकृतदृढबद्धमूलः, सत्यनामादिसप्तलोकब्रह्मादिभूतपक्षिकृतनीडः, प्राणिसुखदुःखोद्भूत-हर्षशोकजात-नृत्यगीतवादित्रक्ष्वेलित-आस्फोटित-हसिताक्रुष्टरुदित-हाहा-मुञ्चमुञ्च-इत्याद्यनेकशब्दकृततुमुलीभूतमहारवः, वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेदः, एष संसारवृक्ष अश्वत्थः अश्वत्थवत् कामकर्मवातेरितनित्यप्रचलितस्वभावः । स्वर्गनरकतिर्यक्प्रेतादिभिः शाखाभिः अवाक्शाखः, अवाञ्चः शाखा यस्य सः, सनातनः अनादित्वात् चिरं प्रवृत्तः ॥
यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिःस्वभावं, तदेव ब्रह्म सर्वमहत्त्वात् । तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात् । वाचारम्भणं विकारो नामधेयम् अनृतम् अन्यत् अतो मर्त्यम् । तस्मिन् परमार्थसत्ये ब्रह्मणि लोकाः गन्धर्वनगरमरीच्युदक-मायासमाः परमार्थदर्शनाभावावगमनाः श्रिताः आश्रिताः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु । तदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिकमिव घटादिकार्यं कश्चन कश्चिदपि विकारः । एतद्वै तत् ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS