अथ कृष्णयजुर्वेदीया काठकोपनिषत्
आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते —
ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥३॥
ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति । तथा अपानं प्रत्यक् अधः अस्यति क्षिपति यः इति वाक्यशेषः । तं मध्ये हृदयपुण्डरीकाकाशे आसीनं बुद्धौ अवभिव्यक्तं विज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाः चक्षुरादयः प्राणाः रूपादिविज्ञानं बलिम् उपाहरन्तो विशः इव राजानम् उपासते तादर्थ्येन अनुपरतव्यापारा भवन्तीत्यर्थः । यदर्था यत्प्रयुक्ताश्च सर्वे वायुकरणव्यापाराः, सोऽन्यः सिद्धः इति वाक्यार्थः ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS