भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ श्रीमच्छङ्करभगवतः कृतौ काठकोपनिषद्भाष्यम्

उपोद्घातः

ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय, नचिकेतसे च ।

अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थम् अल्पग्रन्था वृत्तिरारभ्यते । सदेर्धातोः विशरण-गति- अवसादनार्थस्य उप-नि-पूर्वस्य क्विप्प्रत्ययान्तस्य रूपमिदम् ‘उपनिषत्’ इति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्या उच्यते । केन पुनः अर्थयोगेन उपनिषच्छब्देन विद्या उच्यत इति, उच्यते- ये मुमुक्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्तः उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्याम् उपसद्य उपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम् अविद्यादेः संसारबीजस्य विशरणात् हिंसनात् विनाशनादिति अनेन अर्थयोगेन विद्या उपनिषत् इत्युच्यते । तथा च वक्ष्यति ‘निचाय्य तन्मृमुखात् प्रमुच्यते’ (क. उ. १ । ३ । १५) इति । पूर्वोक्तविशेषणान् वा मुमुक्षून् परं ब्रह्म गमयति इति च ब्रह्मगमयितृत्वेन योगात् ब्रह्मविद्या उपनिषत् । तथा च वक्ष्यति ‘ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युः’ (क. उ. २ । ३ । १८) इति ॥

लोकादिः ब्रह्मजज्ञो योऽग्निः, तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवास-जन्म-जराद्युपद्रवबृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्य अवसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगात् अग्निविद्यापि उपनिषदित्युच्यते । तथा च वक्ष्यति ‘स्वर्गलोका अमृतत्वं भजन्ते’ (क. उ. १ । १ । १३) इत्यादि ॥

ननु च उपनिषच्छब्देनाध्येतारो ग्रन्थमपि अभिलपन्ति — उपनिषदम् अधीमहे उपनिषदम् अध्यापयामः इति च । नैष दोषः, अविद्यादिसंसारहेतुविशरणादेः सदि-धात्वर्थस्य ग्रन्थमात्रे असम्भवात् विद्यायां च सम्भवात् ग्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपपत्तेः ‘आयुर्वै घृतम्’ (तै. सं. २ । ३ । ११) इत्यादिवत् । तस्मात् विद्यायां मुख्यया वृत्त्या उपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्या इति ॥

एवम् उपनिषन्निर्वचनेनैव विशिष्टः अधिकारी विद्यायाम् उक्तः । विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम् । प्रयोजनं च अस्याः आत्यन्तिकी संसारनिवृत्तिः ब्रह्मप्राप्तिलक्षणा । सम्बन्धश्च एवम्भूतप्रयोजनेन उक्तः । अतः यथोक्त-अधिकारि-विषय-प्रयोजनसम्बन्धायाः विद्यायाः करतलन्यस्तामलकवत् प्रकाशकत्वेन विशिष्ट-अधिकारि-विषय-प्रयोजन-सम्बन्धाः एताः वल्ल्यो भवन्ति । इत्यतः, ताः यथाप्रतिभानं व्याचक्ष्महे ॥

© 2023 KKP APP. All rights reserved | Design by SMDS