भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८ ॥

इदानीम् अग्निविज्ञानचयनफलम् उपसंहरति, प्रकरणं च — त्रिणाचिकेतः त्रयं यथोक्तम् ‘या इष्टका यावतीर्वा यथा वा’ इति । एतत् विदित्वा अवगम्य यश्च एवम् आत्मस्वरूपेण अग्निं विद्वान् चिनुते निर्वर्तयति नाचिकेतम् अग्निं क्रतुम् , सः मृत्युपाशान् अधर्म-अज्ञान-रागद्वेषादिलक्षणान् पुरतः अग्रतः, पूर्वमेव शरीरपातादित्यर्थः, प्रणोद्य अपहाय, शोकातिगः मानसैर्दुःखैः विगतः इत्येतत् , मोदते स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिपत्त्या ॥१८॥

© 2023 KKP APP. All rights reserved | Design by SMDS