अथ कृष्णयजुर्वेदीया काठकोपनिषत्
एवमुक्तो मृत्युरुवाच नचिकेतसम् उपगम्य पूजापुरःसरम् —
तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन्ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान् वृणीष्व ॥ ९ ॥
तिस्रः रात्रीः यत् यस्मात् अवात्सीः उषितवानसि गृहे मे मम अनश्नन् हे ब्रह्मन् ! अतिथिः सन् नमस्यः नमस्कारार्हश्च, तस्मात् नमः ते तुभ्यम् अस्तु भवतु । हे ब्रह्मन्! स्वस्ति भद्रं मे अस्तु । तस्मात् भवतः अनशनेन मद्गृहवासनिमित्तात् दोषात् । तत्प्राप्त्युपशमेन यद्यपि भवदनुग्रहेण सर्वं मम स्वस्ति स्यात् , तथापि त्वदधिकसम्प्रसादनार्थम् अनशनेन उषिताम् एकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व अभिप्रेतार्थविषयान् प्रार्थयस्व मत्तः ॥९॥
© 2023 KKP APP. All rights reserved | Design by SMDS