भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥

कथम् ? तं नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्यस्य योग्यतां पश्यन् प्रीयमाणः प्रीतिमनुभवन् महात्मा अक्षुद्रबुद्धिः वरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्य इदानीं ददामि भूयः पुनः प्रयच्छामि । तवैव नचिकेतसः नाम्ना अभिधानेन प्रसिद्धः भविता मया उच्यमानः अयम् अग्निः । किञ्च, सृङ्कां शब्दवतीं रत्नमयीं मालाम् इमाम् अनेकरूपां विचित्रां गृहाण स्वीकुरु । यद्वा, सृङ्काम् अकुत्सितां गतिं कर्ममयीं गृहाण । अन्यदपि कर्मविज्ञानम् अनेकफलहेतुत्वात् स्वीकुरु इत्यर्थः ॥१६॥

© 2023 KKP APP. All rights reserved | Design by SMDS