भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥११॥

ताम् ईदृशीं तदवस्थां योगम् इति मन्यन्ते वियोगमेव सन्तम् । सर्वानर्थसंयोगवियोगलक्षणा हि इयमवस्था योगिनः । एतस्यां हि अवस्थायाम् अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठः आत्मा स्थिरामिन्द्रियधारणां स्थिरामचलाम् इन्द्रियधारणां बाह्यान्तःकरणानां धारणमित्यर्थः । अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवान् तदा तस्मिन्काले, यदैव प्रवृत्तयोगो भवतीति सामर्थ्यादवगम्यते । न हि बुद्ध्यादिचेष्टाभावे प्रमादसम्भवोऽस्ति । तस्मात् प्रागेव बुद्ध्यादिचेष्टोपरमात् अप्रमादो विधीयते । अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव निरङ्कुशम् अप्रमत्तत्वम् इत्यतः अभिधीयते अप्रमत्तस्तदा भवति इति । कुतः ? योगो हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मक इत्यर्थः । अतः अपायपरिहाराय अप्रमादः कर्तव्यः इत्यभिप्रायः ॥११॥

© 2023 KKP APP. All rights reserved | Design by SMDS