अथ कृष्णयजुर्वेदीया काठकोपनिषत्
तदेतदिति मन्यन्ते अनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥
यत्तदात्मविज्ञानसुखम् अनिर्देश्यं निर्देष्टुम् अशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोः अगोचरमपि सत् निवृत्तैषणा ये ब्राह्मणाः ते तदेतत्प्रत्यक्षमेव इति मन्यन्ते, कथं नु केन प्रकारेण तत्सुखम् अहं विजानीयाम् इदम् इति आत्मबुद्धिविषयम् आपादयेयं यथा निवृत्तविषयैषणा यतयः । किमु तत् भाति दीप्यते प्रकाशात्मकं तत् यतः अस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किं वा नेति ॥१४॥