भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अथ तृतीया वल्ली

ऋतं पिबन्तौ’ इत्यस्याः वल्ल्याः सम्बन्धः — विद्याविद्ये नाना विरुद्धफले इत्युपन्यस्ते, न तु सफले ते यथावन्निर्णीते । तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृप्राप्य-गन्तृगन्तव्य-विवेकार्थं रथरूपकद्वारा द्वौ आत्मानौ उपन्यस्येते —

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥

ऋतं सत्यम् अवश्यंभावित्वात् कर्मफलं पिबन्तौ ; एकस्तत्र कर्मफलं पिबति भुङ्क्ते न इतरः, तथापि पातृसम्बन्धात् पिबन्तौ इत्युच्येते च्छत्रिन्यायेन । सुकृतस्य स्वयङ्कृतस्य कर्मणः ऋतमिति पूर्वेण सम्बन्धः । लोके अस्मिञ्शरीरे, गुहां गुहायां बुद्धौ प्रविष्टौ, परमे, बाह्यपुरुषाकाशसंस्थानापेक्षया परमम्, परार्धे परस्य ब्रह्मणः अर्धं स्थानं परार्धं हार्दाकाशम् । तस्मिन् हि परं ब्रह्म उपलभ्यते । ततः तस्मिन्परमे परार्धे हार्दाकाशे प्रविष्टौ इत्यर्थः । तौ च च्छायातपौ इव विलक्षणौ संसारित्व-असंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति । न केवलम् अकर्मिण एव वदन्ति । पञ्चाग्नयो गृहस्थाः । ये च त्रिणाचिकेताः त्रिःकृत्वो नाचिकेताग्निः चितः यैः ते त्रिणाचिकेताः ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS