भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥

नचिकेता उवाच — स्वर्गे लोके रोगादिनिमित्तं भयं किञ्चन किञ्चिदपि नास्ति । न च तत्र त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह लोके इव त्वत्तो न बिभेति कश्चित्तत्र । किं च उभे अशनायापिपासे तीर्त्वा अतिक्रम्य शोकमतीत्य गच्छति इति शोकातिगः सन् मानसेन दुःखेन वर्जितः मोदते हृष्यति स्वर्गलोके दिवि ॥१२॥

© 2023 KKP APP. All rights reserved | Design by SMDS