अथ कृष्णयजुर्वेदीया काठकोपनिषत्
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥४॥
अतिसूक्ष्मत्वाद्दुर्विज्ञेयमिति मत्वा एतमेव अर्थं पुनः पुनः आह — स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयम् इत्येतत् । तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च । उभौ स्वप्नजागरितान्तौ येन आत्मना अनुपश्यति लोकः इति सर्वं पूर्ववत् । तं महान्तं विभुमात्मानं मत्वा अवगम्य आत्मभावेन साक्षादहमस्मि परमात्मा इति धीरः न शोचति ॥४॥
© 2023 KKP APP. All rights reserved | Design by SMDS