अथ कृष्णयजुर्वेदीया काठकोपनिषत्
एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्यादिति प्राप्ते, इदमुच्यते —
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥११॥
सूर्यः यथा चक्षुष आलोकेन उपकारं कुर्वन् मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् न लिप्यते चाक्षुषैः अशुच्यादिदर्शननिमित्तैः आध्यात्मिकैः पापदोषैः बाह्यैश्च अशुच्यादिसंसर्गदोषैः एकः सन्, तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः । लोको हि अविद्यया स्वात्मन्यध्यस्तया कामकर्मोद्भवं दुःखम् अनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा रज्जु-शुक्तिका-ऊषर-गगनेषु सर्प-रजत-उदक-मलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणि विपरीतबुद्ध्यध्यासनिमित्तात् तु तद्दोषवद्विभाव्यन्ते्; न तद्दोषैः तेषां लेपः, विपरीतबुद्ध्यध्यासबाह्या हि ते्; तथा आत्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतम् अध्यस्य तन्निमित्तं जन्ममरणादिदुःखम् अनुभवति; न तु आत्मा सर्वलोकात्मा अपि सन् विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन । कुतः ? बाह्यः रज्ज्वादिवदेव विपरीतबुद्ध्यध्यासबाह्यो हि सः इति ॥११॥
© 2023 KKP APP. All rights reserved | Design by SMDS