अथ कृष्णयजुर्वेदीया काठकोपनिषत्
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥२॥
यदि उभे अपि कर्तुं स्वायत्ते पुरुषेण, किमर्थं प्रेयः एव आदत्ते बाहुल्येन लोकः इति- उच्यते । सत्यं स्वायत्ते ; तथापि साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूते इव मनुष्यं पुरुषम् आ-इतः एतः प्राप्नुतः श्रेयश्च प्रेयश्च । अतो हंस इव, अम्भसः पयः, तौ श्रेयःप्रेयःपदार्थौ सम्परीत्य सम्यक्परिगम्य मनसा आलोच्य गुरुलाघवं विविनक्ति पृथक्करोति धीरः धीमान् । विविच्य च श्रेयो हि श्रेय एव अभिवृणीते, अभ्यर्हितत्वात् श्रेयसः । कोऽसौ ? धीरः । यस्तु मन्दः अल्पबुद्धिः सः सदसद्विवेक-असामर्थ्यात् योगक्षेमात् योगक्षेमनिमित्तं शरीराद्युपचय-रक्षणनिमित्तम् इत्येतत् । प्रेयः पशुपुत्रादिलक्षणं वृणीते ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS