अथ कृष्णयजुर्वेदीया काठकोपनिषत्
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥
प्रायेण हि एवंविध एव लोकः । यस्तु श्रेयोर्थी स सहस्रेषु कश्चिदेव आत्मविद्भवति त्वद्विधः यस्मात् —
श्रवणायापि श्रवणार्थं श्रोतुमपि यः न लभ्यः आत्मा बहुभिः अनेकैः, शृण्वन्तोऽपि बहवः अनेके अन्ये यम् आत्मानं न विद्युः न विदन्ति अभागिनः असंस्कृतात्मानो न विजानीयुः । किञ्च, अस्य वक्तापि आश्चर्यः अद्भुतवदेव, अनेकेषु कश्चिदेव भवति । तथा श्रुत्वापि अस्य आत्मनः कुशलः निपुण एव अनेकेषु लब्धा कश्चिदेव भवति । यस्मात् आश्चर्यः ज्ञाता कश्चिदेव कुशलानुशिष्टः कुशलेन निपुणेन आचार्येण अनुशिष्टः सन् ॥ ७॥
© 2023 KKP APP. All rights reserved | Design by SMDS