भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः ।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥

मृत्युना एवं प्रलोभ्यमानोऽपि नचिकेता महाह्रदवत् अक्षोभ्यः आह — श्वो भविष्यन्ति न भविष्यन्ति वा इति सन्दिह्यमानः एव येषां भावो भवनं त्वया उपन्यस्तानां भोगानां ते श्वोभावाः । किञ्च, मर्त्यस्य मनुष्यस्य अन्तक हे मृत्यो, यत् एतत् सर्वेन्द्रियाणां तेजः तत् जरयन्ति अपक्षपयन्ति । अप्सरःप्रभृतयो भोगा अनर्थायैव एते, धर्म-वीर्य-प्रज्ञा-तेजो-यशःप्रभृतीनां क्षपयितृत्वात् । यां चापि दीर्घजीविकां त्वं दित्ससि तत्रापि शृणु । सर्वं यद्ब्रह्मणोऽपि जीवितम् आयुः अल्पमेव, किमुत अस्मदादिदीर्घजीविका । अतः तवैव तिष्ठन्तु वाहाः रथादयः, तथा तव नृत्यगीते च ॥२६॥

© 2023 KKP APP. All rights reserved | Design by SMDS