अथ कृष्णयजुर्वेदीया काठकोपनिषत्
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥२॥
यः सेतुः सेतुरिव सेतुः ईजानानां यजमानानां कर्मिणाम्, दुःखसन्तरणार्थत्वात् । नाचिकेतं नाचिकेतोऽग्निः तम्, वयं ज्ञातुं चेतुं च शकेमहि शक्तवन्तः । किञ्च, यच्च अभयं भयशून्यं संसारस्य पारं तितीर्षतां तर्तुम् इच्छताम् । ब्रह्मविदां यत्परम् आश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच्च ज्ञातुं शकेमहि । परापरे ब्रह्मणी कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः; तयोरेव हि उपन्यासः कृतः ‘ऋतं पिबन्तौ’ इति ॥२॥