भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥३॥

स त्वं पुनः पुनः मया प्रलोभ्यमानोऽपि प्रियान् पुत्रादीन् प्रियरूपांश्च अप्सरःप्रभृतिलक्षणान् कामान् अभिध्यायन् चिन्तयन् तेषाम् अनित्यत्व-असारत्वादिदोषान् हे नचिकेतः, अत्यस्राक्षीः अतिसृष्टवान् परित्यक्तवानसि ; अहो बुद्धिमत्ता तव । न एताम् अवाप्तवानसि सृङ्कां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयीं धनप्रायाम् ; यस्यां सृतौ मज्जन्ति सीदन्ति बहवः अनेके मूढा मनुष्याः॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS