भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥ १३ ॥

एवं गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतम् अग्निं स्वर्ग्यं स त्वं मृत्युः अध्येषि स्मरसि, जानासि इत्यर्थः । हे मृत्यो, यतः तं प्रब्रूहि कथय श्रद्दधानाय श्रद्धावते मह्यं स्वर्गार्थिने । येन अग्निना चितेन स्वर्गलोकाः स्वर्गो लोको येषां ते स्वर्गलोकाः यजमानाः अमृतत्वम् अमरणतां देवत्वं भजन्ते प्राप्नुवन्ति, तत् एतत् अग्निविज्ञानं द्वितीयेन वरेण वृणे ॥१३॥

© 2023 KKP APP. All rights reserved | Design by SMDS