भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३ ॥

एवमुक्तोऽपि पुनः प्रलोभयन् उवाच मृत्युः — शतायुषः शतं वर्षाणि आयूंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व । किञ्च, गवादिलक्षणान् बहून् पशून् हस्तिहिरण्यम् , हस्ती च हिरण्यं च हस्तिहिरण्यम् , अश्वांश्च । किञ्च, भूमेः पृथिव्याः महत् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व । किञ्च, सर्वमप्येतत् अनर्थकं स्वयं चेदल्पायुः इत्यतः आह — स्वयं च त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदः वर्षाणि यावत् इच्छसि जीवितुम् ॥२३॥

© 2023 KKP APP. All rights reserved | Design by SMDS