भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥

इत्येवं पृष्टवते मृत्युरुवाच, पृष्टं वस्तु विशेषणान्तरं च विवक्षन् । सर्वे वेदा यत्पदं पदनीयं गमनीयम् अविभागेन अविरोधेन आमनन्ति प्रतिपादयन्ति, तपांसि सर्वाणि च यद्वदन्ति यत्प्राप्त्यर्थानि इत्यर्थः । यदिच्छन्तो ब्रह्मचर्यं गुरुकुलवासलक्षणम् अन्यद्वा ब्रह्मप्राप्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं यज्ज्ञातुमिच्छसि सङ्ग्रहेण सङ्क्षेपतः ब्रवीमि ओं इत्येतत् । तदेतत्पदं यद्बुभुत्सितं त्वया तदेतद् ओम् इति ओंशब्दवाच्यमोंशब्दप्रतीकं च ॥१६॥

© 2023 KKP APP. All rights reserved | Design by SMDS